Posts

Showing posts from July, 2022

जगद्विजयि श्रीकेशवकाश्मीरि भट्टाचार्य जी द्वारा रचित श्रीभगवद्गीता की तत्त्वप्रकाशिका नामक टीका

  * श्रीसर्वेश्वरो जयति * * श्रीनिम्बार्काय नमः * भूमिका   यो मायागुणदोषलेशरहितः स्वाभाविकैः सद्गुणैः स्वातन्त्र्याखिलविज्ञताद्यगणितैर्युक्तो ऽब्जजादिस्तुतः ॥ भक्ताभीष्टप्रदो रमैकरमणो वेदैकगम्यो हि य- स्तं वन्दे मनसा गिरा च शिरसा गोपीप्रियं श्रीहरिम् ॥१॥ यस्य श्रीकरुणार्णवस्य करुणालेशेन बालो ध्रवः स्वेष्टं प्राप्य समार्यधाम समगाद्रङ्कोऽप्यविन्दच्छ्रियम् ॥ याता मुक्तिमजामिलादिपतिताः शैलोऽपि पूज्योऽभव- त्तं श्रीमाधवमाश्रितेष्टदमहं नित्यं शरण्यं भजे ॥२॥ श्रुतीनां सूत्राणां   स्मृतिनिखिलवेदानुवचसां परं हार्द्दं युक्तं ह्यखिलचिदचिद्भिन्नमपि च ॥ अभिन्न स्वाभाव्याद्गुणि च परमं ब्रह्म कमिदं समादिष्टं यैस्तानपि सततमीडे गुरुवरान् ॥३॥ संसाररोगशमने खलु निम्बवद्यो हार्द्दन्धकारहरणे ऽर्क्कवदेव यश्च ।। श्रीकृष्णपादपरिचारणतुष्टचेता *निम्बार्कदेशिकवरः स हि मे गतिः स्यात् ॥४॥ श्रीश्रीनिवासमाचार्यं गुरु श्रीगंगलाभिधम् ॥ प्रणम्य क्रियते गीता-व्याख्या तत्त्वप्रकाशिका ॥५।   अथ स्वभावतोऽपास्ताखिलाविद्याक्लेशकर्मजन्मादिषड्भावसत्त्वादिगुणकार्यसम्बन्ध...